Sunday, December 22, 2013

सूर्य नमस्कार


सूर्य नमस्कार
नमो नम: कारणकारणाय नमो पापविमोचनाय!
नमो नमस्ते दितिजार्दनाय नमो नमो रोगविमोचनाय!!
नमो नम: सर्व वरप्रदाय नमो नम: सर्वसुखप्रदाय!
नमो नम: सर्वधनप्रदाय नमो नम: सर्वमतिप्रदाय !!
*****************
अथ सूर्य कवचं!!
ॐ अम् आम् इम् ईं शिरः पातु ॐ सूर्यो मन्त्रविग्रहः!
उम् ऊं ऋं ॠं ललाटं मे ह्रां रविः पातु चिन्मयः!!१ !!
ऌं ॡम् एम् ऐं पातु नेत्रे ह्रीं ममारुणसारथिः !
ॐ औम् अम् अः श्रुती पातु सः सर्वजगदीश्वरः!! २ !! 
कं खं गं घं पातु गण्डौ सूं सूरः सुरपूजितः!
चं छं जं झं च नासां मे पातु यार्म् अर्यमा प्रभुः !!३!!
टं ठं डं ढं मुखं पायाद् यं योगीश्वरपूजितः !
तं थं दं धं गलं पातु नं नारायणवल्लभः !!४!!
पं फं बं भं मम स्कन्धौ पातु मं महसां निधिः!
यं रं लं वं भुजौ पातु मूलं सकनायकः!!५!!
शं षं सं हं पातु वक्षो मूलमन्त्रमयो ध्रुवः!
लं क्षः कुक्ष्सिं सदा पातु ग्रहाथो दिनेश्वरः!!६!! 
ङं ञं णं नं मं मे पातु पृष्ठं दिवसनायकः !
अम् आम् इम् ईम् उम् ऊं ऋं ॠं नाभिं पातु तमोपहः!! ७!! 
ऌं ॡम् एम् ऐम् ॐ औम् अम् अः लिङ्गं मे‌உव्याद् ग्रहेश्वरः! 
कं खं गं घं चं छं जं झं कटिं भानुर्ममावतु !!८!!
टं ठं डं ढं तं थं दं धं जानू भास्वान् ममावतु !
पं फं बं भं यं रं लं वं जङ्घे मे‌உव्याद् विभाकरः !!९!! 
शं षं सं हं लं क्षः पातु मूलं पादौ त्रयितनुः!
ङं ञं णं नं मं मे पातु सविता सकलं वपुः !!१०!! 
सोमः पूर्वे च मां पातु भौमो‌உग्नौ मां सदावतु!
बुधो मां दक्षिणे पातु नैऋत्या गुररेव माम् !!११! 
पश्चिमे मां सितः पातु वायव्यां मां शनैश्चरः! 
उत्तरे मां तमः पायादैशान्यां मां शिखी तथा !१२!! 
ऊर्ध्वं मां पातु मिहिरो मामधस्ताञ्जगत्पतिः !
प्रभाते भास्करः पातु मध्याह्ने मां दिनेश्वरः !!१३!! 
सायं वेदप्रियः पातु निशीथे विस्फुरापतिः! 
सर्वत्र सर्वदा सूर्यः पातु मां चक्रनायकः !!१४!! 
रणे राजकुले द्यूते विदादे शत्रुसङ्कटे! 
सङ्गामे च ज्वरे रोगे पातु मां सविता प्रभुः!!१५!! 
ॐ ॐ ॐ उत ॐउऔम् ह स म यः सूरो‌உवतान्मां भयाद्
ह्रां ह्रीं ह्रुं हहहा हसौः हसहसौः हंसो‌உवतात् सर्वतः! 
सः सः सः सससा नृपाद्वनचराच्चौराद्रणात् सङ्कटात्
पायान्मां कुलनायको‌Sपि सविता ॐ ह्रीं ह सौः सर्वदा!!१७!! 
द्रां द्रीं द्रूं दधनं तथा च तरणिर्भाम्भैर्भयाद् भास्करो
रां रीं रूं रुरुरूं रविर्ज्वरभयात् कुष्ठाच्च शूलामयात् !
अम् अम् आं विविवीं महामयभयं मां पातु मार्तण्डको
मूलव्याप्ततनुः सदावतु परं हंसः सहस्रांशुमान् !१७!!

श्री साई सच्चरित्र



श्री साई सच्चरित्र

आओ मिलकर पढ़ें और साथ जुड़ें !

श्री साई सच्चरित्र अध्याय 1

श्री साई सच्चरित्र अध्याय 2


आओ मिलकर पढ़ें और साथ जुड़ें !

Sai Aartian साईं आरतीयाँ